Elige una pista para reproducir
नमामीश्वरं सच्चिदानंदरूपं
लसत्कुण्डलं गोकुले भ्राजमानं
नमामीश्वरं सच्चिदानंदरूपं
लसत्कुण्डलं गोकुले भ्राजमानं
यशोदाभियोलूखलाद्धावमानं
परामृष्टमत्यं ततो द्रुत्य गोप्या
यशोदाभियोलूखलाद्धावमानं
परामृष्टमत्यं ततो द्रुत्य गोप्या
रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तम्
कराम्भोजयुग्मेन सातङ्कनेत्रम्
रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तम्
कराम्भोजयुग्मेन सातङ्कनेत्रम्
मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ
स्थितग्रैवं दामोदरं भक्तिबद्धम्
मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ
स्थितग्रैवं दामोदरं भक्तिबद्धम्
इतीदृक् स्वलीलाभिरानंदकुण्डे
स्वघोषं निमज्जन्तमाख्यापयन्तम्
इतीदृक् स्वलीलाभिरानंदकुण्डे
स्वघोषं निमज्जन्तमाख्यापयन्तम्
तदीयेशितज्ञेषु भक्तिर्जितत्वम्
पुनः प्रेमतस्तं शतावृत्तिवन्दे
तदीयेशितज्ञेषु भक्तिर्जितत्वम्
पुनः प्रेमतस्तं शतावृत्तिवन्दे
वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणेऽहं वरेशादपीह
वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणेऽहं वरेशादपीह
इदं ते वपुर्नाथ गोपालबालं
सदा मे मनस्याविरास्तां किमन्यैः
इदं ते वपुर्नाथ गोपालबालं
सदा मे मनस्याविरास्तां किमन्यैः
हरे कृष्णा, हरे कृष्णा, कृष्णा-कृष्णा, हरे-हरे
हरे रामा, हरे रामा, रामा-रामा, हरे-हरे
हरे कृष्णा, हरे कृष्णा, कृष्णा-कृष्णा, हरे-हरे
हरे रामा, हरे रामा, रामा-रामा, हरे-हरे
इदं ते मुखाम्भोजमत्यन्तनीलैः
वृतं कुन्तलैः स्निग्धरक्तैश्च गोप्या
इदं ते मुखाम्भोजमत्यन्तनीलैः
वृतं कुन्तलैः स्निग्धरक्तैश्च गोप्या
मुहुश्चुम्बितं बिम्बरक्ताधरं मे
मनस्याविरास्तामलं लक्षलाभैः
मुहुश्चुम्बितं बिम्बरक्ताधरं मे
मनस्याविरास्तामलं लक्षलाभैः
हरे कृष्णा, हरे कृष्णा, कृष्णा-कृष्णा, हरे-हरे
हरे रामा, हरे रामा, रामा-रामा, हरे-हरे
नमो देव दामोदरानन्तविष्णो
प्रसीद प्रभो दुःखजालाब्धिमग्नम्
नमो देव दामोदरानन्तविष्णो
प्रसीद प्रभो दुःखजालाब्धिमग्नम्
कृपादृष्टिवृष्ट्यातिदीनं बतानु
गृहाणेष मामज्ञमेध्यक्षिदृश्यः
कृपादृष्टिवृष्ट्यातिदीनं बतानु
गृहाणेष मामज्ञमेध्यक्षिदृश्यः
हरे कृष्णा, हरे कृष्णा, कृष्णा-कृष्णा, हरे-हरे
हरे रामा, हरे रामा, रामा-रामा, हरे-हरे
कुबेरात्मजौ बद्धमूर्त्यैव यद्वत्
त्वया मोचितौ भक्तिभाजौ कृतौ च
कुबेरात्मजौ बद्धमूर्त्यैव यद्वत्
त्वया मोचितौ भक्तिभाजौ कृतौ च
तथा प्रेमभक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरेह
तथा प्रेमभक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरेह
नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने
नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने
नमो राधिकायै त्वदीयप्रियायै
नमोऽनन्तलीलाय देवाय तुभ्यम्
नमो राधिकायै त्वदीयप्रियायै
नमोऽनन्तलीलाय देवाय तुभ्यम्
हरे कृष्णा, हरे कृष्णा, कृष्णा-कृष्णा, हरे-हरे
हरे रामा, हरे रामा, रामा-रामा, हरे-हरे
हरे कृष्णा, हरे कृष्णा, कृष्णा-कृष्णा, हरे-हरे
हरे रामा, हरे रामा, रामा-रामा, हरे-हरे