Elige una pista para reproducir
Sencillo / Pista
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम्
वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम्
चालितं मधुरं भ्रमितं मधुरम्
मधुराधिपतेरखिलं मधुरम्
वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम्
गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम्
रूपं मधुरं तिलकम् मधुरम्
मधुराधिपतेरखिलं मधुरम्
करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम्
वमितं मधुरं शमितं मधुरम्
मधुराधिपतेरखिलं मधुरम्
गुञ्जा मधुरा माला मधुरा
यमुनां मधुरा वेचि मधुरा
सलिलं मधुरं कमलम् मधुरम्
मधुराधिपतेरखिलं मधुरम्
गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम्
दृष्टं मधुरं शिष्टं मधुरम्
मधुराधिपतेरखिलं मधुरम्
गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा
दलितं मधुरं फलितं मधुरम्
मधुराधिपतेरखिलं मधुरम्