
जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम्
दुर्गां देवींशरणमहं प्रपद्ये सुतरसि तरसे नमः
अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः
विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरितातिपर्षि
अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम्
पृतनाजितंसहमानमुग्रमग्निं हुवेम परमात्सधस्थात्
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निः
प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि
स्वां चाग्ने तनुवं विप्रयस्वास्मभ्यं च सौभगमायजस्व
गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसंचरेम
नाकस्य पृष्ठमभि संवसानो वैष्णवीं लोक इह मादयन्ताम्
कात्यायनाय विद्महे कन्याकुमारि धीमहि
तन्नो दुर्गिः प्रचोदयात्