Выберите трек для воспроизведения
प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजम्
भवद्भव्य भूतेश्वरं भूतनाथं शिवं शंकरं शम्भु मीशानमीडे
गले रुण्डमालं तनौ सर्पजालं महाकाल कालं गणेशादि पालम्
जटाजूट गङ्गोत्तरङ्गैविशिष्यं शिवं शंकरं शम्भु मीशानमीडे
मुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरन्तम्
अनादिं ह्यपारं महा मोहमारं शिवं शंकरं शम्भु मीशानमीडे
वटाधो निवासं महाट्टट्टहासं महापाप नाशं सदा सुप्रकाशम्
गिरीशं गणेशं सुरेशं महेशं शिवं शंकरं शम्भु मीशानमीडे
गिरीन्द्रात्मजा संगृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्न गेहम्
परब्रह्म ब्रह्मादिभिर्वन्द्यमानं शिवं शंकरं शम्भु मीशानमीडे
कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोज नम्राय कामं ददानम्
बलीवर्धयानं सुराणां प्रधानं शिवं शंकरं शम्भु मीशानमीडे
शरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनेत्रं पवित्रं धनेश्यस्य मित्रम्
अपर्णा कलत्रं सदा सच्चरित्रं शिवं शंकरं शम्भु मीशानमीडे
हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारम्
श्मशाने वसन्तं मनोजं दहन्तं शिवं शंकरं शम्भु मीशानमीडे
स्वयं यः प्रभाते नरः शूलपाणे पठेत् स्तोत्ररत्नं त्विह प्राप्यरत्नम्
सुपुत्रं सधान्यं सुमित्रं कलत्रं विचित्रैः समाराध्य मोक्षं प्रयाति