Выберите трек для воспроизведения
ॐ श्री गणेशा नमः श्री शाकदम वाचन
योगीश्वरो महासेन कार्तिकेयोग्निनंदन
स्कंद:कुमार सेनानी स्वामी शंकर संभव:
योगीश्वरो महासेन कार्तिकेयोग्निनंदन
स्कंद:कुमार सेनानी स्वामी शंकर संभव:
गांगेयस्ताम्रचुडश्च ब्रम्हचारी शिखीध्वज
तारकारीरुमापुत्र क्रौञ्चारिश्च षडाननः
शब्दब्रम्ह समुद्रश्च सिद्ध सारस्वतो गुहः
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः
शरजन्मा गणाधीश पूर्वजो मुक्तीमार्गक्रूत्
सर्वागम प्रणेता च वांछितार्थ प्रदर्शनः
अष्टाविंशति नामानि मदीयानिती यः पठेत्
प्रत्युषम् श्रद्धया युक्तो मुको वाचस्पतीर्भवेत्
महामंत्रमया निती ममनामानु कीर्तनम्
महाप्रज्ञामवाप्नोति नात्र कार्याविचारणा
इति श्री रूद्रयामले प्रज्ञाविवर्धनाख्याम्
श्रीमद् कार्तिकेय स्तोत्रम् संपूर्णम्