Оберіть трек для відтворення
विनोदमोदमोदिता दयोदयोज्ज्वलान्तरा
निशुम्भशुम्भदम्भदारणे सुदारुणाऽरुणा
अखण्डगण्डदण्डमुण्डमण्डलीविमण्डिता
प्रचण्डचण्डरश्मिरश्मिराशिशोभिता शिवा
अमन्दनन्दिनन्दिनी धराधरेन्द्रनन्दिनी
प्रतीर्णशीर्णतारिणी सदार्यकार्यकारिणी
तदन्धकान्तकान्तकप्रियेशकान्तकान्तका
मुरारिकामचारिकाममारिधारिणी शिवा
अशेषवेषशून्यदेशभर्तृकेशशोभिता
गणेशदेवतेशशेषनिर्निमेषवीक्षिता
जितस्वशिञ्जिताऽलिकुञ्जपुञ्जमञ्जुगुञ्जिता
समस्तमस्तकस्थिता निरस्तकामकस्तवा
ससम्भ्रमं भ्रमं भ्रमं भ्रमन्ति मूढमानवा
मुदा बुधाः सुधां विहाय धावमानमानसाः
अधीनदीनहीनवारिहीनमीनजीवना
ददातु शम्प्रदाऽनिशं वशंवदार्थमाशिषम्
विलोललोचनाञ्चितोचितैश्चिता सदा गुणै
अपास्यदास्यमेवमास्यहास्यलास्यकारिणी
निराश्रयाऽऽश्रयाश्रयेश्वरी सदा वरीयसी
करोतु शं शिवाऽनिशं हि शङ्कराङ्कशोभिनी
करोतु शं शिवाऽनिशं हि शङ्कराङ्कशोभिनी
करोतु शं शिवाऽनिशं हि शङ्कराङ्कशोभिनी